च्वि प्रत्ययः
August 25, 2009 at 9:04 PM | Posted in प्रत्ययाः | Leave a comment
च्वि प्रत्ययः
च्विप्रत्ययः अभूततद्भावार्थकः भवति अर्थात् यद् वस्तु पूर्वम् तस्मिन् रूपे नासीत् किन्तु सम्प्रति परिवर्तितम् रूपम् धारयति तस्य बोधाय च्विप्रत्ययः प्रयुज्यते।
एषः प्रत्ययः कृ-भू-अस् धातूनाम् एव योगे भवति।प्रक्रियायाम् प्रत्ययः लुप्तः भवति।पूर्वपदस्य अन्तिमः अकारः आकारः वा ईकाररूपम् गृह्णाति।पूर्वपदस्य अन्तिमे यदि अन्ये स्वराः भवन्ति ते दीर्घाः जायन्ते।
उदाहरणानि
अकृष्णः कृष्णः क्रियते – कृष्णीक्रियते
अपटुः पटुः भवति – पटूभवति
अश्यामः श्यामः भवति – श्यामीभवति
अलक्ष्यम् लक्ष्यम् करोति – लक्ष्यीकरोति
अश्वेतम् श्वेतम् करोति – श्वेतीकरोति
‘ठक्’ प्रत्ययः
August 19, 2009 at 3:19 PM | Posted in प्रत्ययाः | Leave a commentअद्य मम अध्यापिका कक्षाम् ‘ठक्’ प्रत्ययम् अपाठ्यम् -
‘ठक्’ प्रत्ययस्य स्थाने ‘इक’ भवति
प्रोयोगे तु ‘इक’ एव दृश्यते। यथा-समाज+ठक्-सामाजिक
अत्र इदम् अपि ध्यातव्यम् यत् ‘ठञ’ प्रत्ययस्य स्थाने अपि ‘इक’ एव भवति। दिन + ठञ – दैनिक
ठक् /ठञ प्रत्यये जाते मूलशब्दस्य आदिस्वरस्य वृद्धिः भवति। ‘आ’ ‘ऐ’ ‘औ’ त्रयः वृद्धिस्वराः सन्ति।
ते क्रमशः
अ – आ
इ /ए -ऐ
उ /ओ – औ
ऋ – आर् इति भवति
‘इक’ प्रत्ययान्तम् पदम् विशेषणपदम् भवति। अतः अस्य पदस्य विशेष्यपदानुसारं लिङ्गं भवति।
विसर्ग संधिम् अपठम् (Read Visarga Sandhi)
August 4, 2009 at 8:40 PM | Posted in Vyakaran | Leave a comment
अद्य मम संस्कृत-अध्यापिका अस्मान् विसर्ग-संधिम् अपाठयत्। विसर्ग-संधिः अस्माभिः नवमकक्षायाम् अपि पठितः। पुनरभ्यासात् वयम् सर्वे छात्राः प्रसन्नाः अभवन्। केचित् उदाहरणाः-
सः + आगच्छति = स आगच्छति
एषः + अपठत् = एष अपठत्
खगः + उत्पतति = खग उत्पतति
रामः + अगच्छत् =रामोऽगच्छत्
वृक्षः + वर्धते =वृक्षो वर्धते
तरुणाः + हसन्ति =तरुणा हसन्ति
धेनुः + इति =धेनुरिति
तैः + भक्ष्यते =तैर्भक्ष्यते
समासाः
July 22, 2009 at 6:50 PM | Posted in समासाः | 2 Comments
(Everyone will get a lot of help especially Class 10th)
(Save the images on your Computer,zoom them and see)




Blog at WordPress.com. | Theme: Pool by Borja Fernandez.
Entries and comments feeds.