च्वि प्रत्ययः

August 25, 2009 at 9:04 PM | Posted in प्रत्ययाः | Leave a comment

च्वि प्रत्ययः

च्विप्रत्ययः अभूततद्भावार्थकः भवति अर्थात् यद् वस्तु पूर्वम् तस्मिन् रूपे नासीत् किन्तु सम्प्रति परिवर्तितम् रूपम् धारयति तस्य बोधाय च्विप्रत्ययः प्रयुज्यते।

एषः प्रत्ययः कृ-भू-अस् धातूनाम् एव योगे भवति।प्रक्रियायाम् प्रत्ययः लुप्तः भवति।पूर्वपदस्य अन्तिमः अकारः आकारः वा ईकाररूपम् गृह्णाति।पूर्वपदस्य अन्तिमे यदि अन्ये स्वराः भवन्ति ते दीर्घाः जायन्ते।

उदाहरणानि

अकृष्णः कृष्णः क्रियते – कृष्णीक्रियते

अपटुः पटुः भवति – पटूभवति

अश्यामः श्यामः भवति – श्यामीभवति

अलक्ष्यम् लक्ष्यम् करोति – लक्ष्यीकरोति

अश्वेतम् श्वेतम् करोति – श्वेतीकरोति

‘ठक्’ प्रत्ययः

August 19, 2009 at 3:19 PM | Posted in प्रत्ययाः | Leave a comment

अद्य मम अध्यापिका कक्षाम् ‘ठक्’ प्रत्ययम् अपाठ्यम् –

‘ठक्’ प्रत्ययस्य स्थाने ‘इक’ भवति

प्रोयोगे तु ‘इक’ एव दृश्यते। यथा-समाज+ठक्-सामाजिक

अत्र इदम् अपि ध्यातव्यम् यत् ‘ठञ’ प्रत्ययस्य स्थाने अपि ‘इक’ एव भवति। दिन + ठञ – दैनिक

ठक् /ठञ प्रत्यये जाते मूलशब्दस्य आदिस्वरस्य वृद्धिः भवति। ‘आ’ ‘ऐ’ ‘औ’ त्रयः वृद्धिस्वराः सन्ति।

ते क्रमशः

अ – आ

इ /ए -ऐ

उ /ओ – औ

ऋ – आर् इति भवति

‘इक’  प्रत्ययान्तम् पदम् विशेषणपदम् भवति। अतः अस्य पदस्य विशेष्यपदानुसारं लिङ्गं भवति।

 

Create a free website or blog at WordPress.com.
Entries and comments feeds.